Skip to main content

Posts

Featured

The Bhagavad Gita | Chapter 18 : Freedom Through Renunciation |

अथ अष्टादशो‌உध्यायः । अर्जुन उवाच । संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् । त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ॥ 1 ॥ श्रीभगवानुवाच । काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः । सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥ 2 ॥ त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः । यज्ञदानतपःकर्म न त्याज्यमिति चापरे ॥ 3 ॥ निश्चयं शृणु मे तत्र त्यागे भरतसत्तम । त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः ॥ 4 ॥ यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् । यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥ 5 ॥ एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च । कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ॥ 6 ॥ नियतस्य तु संन्यासः कर्मणो नोपपद्यते । मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ॥ 7 ॥ दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् । स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥ 8 ॥ कार्यमित्येव यत्कर्म नियतं क्रियते‌உर्जुन । सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ॥ 9 ॥ न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते । त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ॥ 10 ॥ न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः । यस्त

Latest posts

The Bhagavad Gita | Chapter 17 : Three Kinds of Faith |

The Bhagavad Gita | Chapter 16 : Divine Traits and Demonic Traits

The Bhagavad Gita | Chapter 15 : The Ultimate Person

The Bhagavad Gita | Chapter 14 : The Three Gunas

The Bhagavad Gita | Chapter 13 : The Field and Its Knower |

The Bhagavad Gita | Chapter 12 : The Yoga of Devotion |

The Bhagavad Gita | Chapter 11 : The Cosmic Vision |

The Bhagavad Gita | Chapter 10 : Divine Manifestations |

The Bhagavad Gita | Chapter 9 : The Secret of Life |